|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.97. अध्यायः 097
Mahabharata - Udyoga Parva - Chapter Topics
कण्वेन सुयोधनस्य बलावलेपविलोपनाय मातलिवरान्वेषणकथाकथनारम्भः ॥ 1 ॥ मातलिना गुणकेशीनामकस्वकन्याया अनुगुणवरान्वेषणाय नागलोकंप्रति प्रस्थानम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-97-0x(3681)(35293)
जामदग्न्यवचः श्रुत्वा कण्वेऽपि भगवानृषिः ।
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥ 5-97-1(35294)
कण्व उवाच। 5-97-2x(3682)
अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः।
तथैव भगवन्तौ तौ नरनारायणावृषी ॥ 5-97-2(35295)
आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः।
अजथ्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः ॥ 5-97-3(35296)
निमित्तमरणाश्चान्ये चन्द्रसूर्यौ मही जलम् ।
वायुरग्निस्तथाऽऽकाशं ग्रहास्तारागणास्तथा ॥ 5-97-4(35297)
ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा।
क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः ॥ 5-97-5(35298)
मुहूर्तमरणास्त्वन्ये मानुषा मूगपक्षिणः।
तैर्यग्योन्याश्च ये चान्ये जीवलोकचरास्तथा ॥ 5-97-6(35299)
भूयिष्ठेन तु राजानः श्रियं भुक्त्वाऽऽयुषः क्षये।
तरुणाः प्रतिपद्यन्ते भोक्तुं सुकृतदुष्कृते ॥ 5-97-7(35300)
स भवान्धर्मपुत्रेण शमं कर्तुमिहार्हसि ।
पाण्डवाः कुरवश्चैव पालयन्तु वसुन्धरान् ॥ 5-97-8(35301)
बलवानहमित्येव न मन्तव्यं सुयोधन ।
बलवन्तो बलिभ्यो हि दृश्यन्ते पूरुषर्षभ ॥ 5-97-9(35302)
न बलं बलिनां मध्ये बलं भवति कौरव ।
बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः । 5-97-10(35303)
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मातलेर्दातुकामस्य कन्यां मृगयतो वरम् ॥ 5-97-11(35304)
मतस्त्रिलोकराजस्य मातलिर्नाम सारथिः।
तस्यैकैव कुले मन्या रूपतो लोकविश्रुता ॥ 5-97-12(35305)
गुणकेशीति विख्याता नाम्ना सा देवरूपिणी ।
श्रिया च वपुषा चैव स्त्रियोऽन्याःसाऽतिरिच्यते ॥ 5-97-13(35306)
तस्याः प्रदानसमयं मातलिः सह भार्यया ।
ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन् ॥ 5-97-14(35307)
धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम्।
नराणां मृदुसत्वानां कुले कन्याप्ररोहणम् ॥ 5-97-15(35308)
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते।
कुलत्रयं संशयितं कुरुते कन्यका सताम् ॥ 5-97-16(35309)
देवमानुषलोकौ द्वौ मानुषेणैव चक्षुषा।
अपगाह्यैव विचितौ न च मे रोचते वरः ॥ 5-97-17(35310)
कण्व उवाच। 5-97-18x(3683)
न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान्।
अरोचयद्वरकृते तथैव बहुलानृषीन् ॥ 5-97-18(35311)
भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया ।
मातलिर्नागलोकाय चकार गमने मतिम् ॥ 5-97-19(35312)
न मे देवमनुष्येषु गुणकेश्याः समो वरः।
रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम् ॥ 5-97-20(35313)
इत्यामन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम्।
कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम् ॥ ॥ 5-97-21(35314)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्तनवतितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-97-7 तरुणाः अपीति शेषः। युद्धेन मरणं प्राप्नुवन्तीत्यर्थः ॥ 5-97-10 बलं सैन्यम्। बलिनां स्वाभाविकबलवतां बलं सामर्थ्यं न भवति॥ 5-97-11 मातलेरितिहासमिति संबन्धः ॥ 5-97-15 उच्छ्रितानां महत्तया ख्यातानाम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|